द्विपदः पश्य। द्विपदा कृतम्।
भस्य इति किम्? द्विपादौ। द्विपादः। पादः पत्
६।४।१३०। पादः इति पादशब्दो लुप्ताकारो गृह्यते। तदन्तस्य अङ्गस्य भस्य पतित्ययम् आदेशो भवति। स च निर्दिश्यमानस्यादेशा भवन्ति इति पाच्छब्दस्य एव भवति, न तदन्तस्य सर्वस्य। द्विपदः पश्य। द्विपदा। द्विपदे। द्विपदिकां ददाति। त्रिपदिकां ददाति। वैयाघ्रपद्यः।
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः॥ सुपदः। सुपदा। सुपाद्भ्याम्॥ अग्निमत्, अग्निमद्। अग्निमथौ। अग्निमथः॥
"पादः" इति। "पादशब्दो लुप्ताकारो गृह्रते" इति।
अथ पादयतेः क्विबन्तस्य यः पाच्छब्दः सम्पद्यते स कस्मान्न गृह्रते? तस्यासम्भवात्()।
पादयतेर्हि क्विप्? "अन्येभ्योऽपि दृश्यते" (३।२।
१७८) इत्यनेन स्यात्()? स च "दृश्यते" इति वचनान्न भवति। यत्र लोके क्विबन्तप्रोयगो दृश्यते तत्र यथा स्यादित्येवमर्थं हि तत्र "दुश्यते" इत्तयुक्तम्(),
न च पादयतेः क्विबन्तस्य प्रयोगो दृश्यते? पादशब्दस्य समास एवाकारो लुप्यते,
तेन सामथ्र्यात्? तदन्तस्याङ्गस्य कार्यं विज्ञायत इत्याह--"तदन्तस्याङ्गस्य" इत्यादि। यदि तर्हि पाच्छब्दन्तस्याङ्गस्य पदित्ययमादेशो विज्ञायेत, एवं तर्हि "ये न विधिस्तदन्तस्य"
१।१।७१ इति सर्वस्य तदन्तस्य प्राप्नोतीत्याह--"स च" इत्यादि। "द्विपदः" इति। द्वौ पादवस्येति बहुव्रीहिः। "संख्यासुपूर्वस्य"
५।४।१४० इत्यकारलोपः। "द्विपदिकाम्()" इति। द्वौ द्वौ पादौ ददातीति "पादशतस्य"
५।४।१ इत्यादिना वुन्()। "वैयाघ्रपद्यः" इति। व्याघ्रस्येव पादावस्येति बहुव्रीहिः, "पादस्य लोपोऽहस्त्यादिभ्यः"
५।४।१३८ इत्यकारलोपः, व्याघ्रपदोऽपत्यमिति गर्गादित्वाद्यञ्()॥